श्रवणम्

6.18.14
अनु॒ त्वाहि᳚घ्ने॒ अध᳚ देव दे॒वा मद॒न्विश्वे᳚ क॒वित᳚मं कवी॒नाम् ।
करो॒ यत्र॒ वरि᳚वो बाधि॒ताय᳚ दि॒वे जना᳚य त॒न्वे᳚ गृणा॒नः ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । त्वा॒ । अहि᳚॑घ्ने । अध᳚ । दे॒व॒ । दे॒वाः । मद᳚न् । विश्वे᳚ । क॒वि॑त᳚मम् । क॒वी॒नाम् ।
करः᳚ । यत्र᳚ । वरि᳚वः । बा॒धि॒ताय᳚ । दि॒वे । जना᳚य । त॒न्वे᳚ । गृ॒णा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेव द्योतमानेन्द्र त्वा त्वां अधास्मिन्काले विश्वे सर्वेदेवाःस्तोतारःअहिघ्ने मेघहननाय वृष्टिप्रदानायेत्यर्थः अनुमदन्ननुमदन्ति अनुस्तु- वन्ति कीदृशंत्वां कवीनां मेधाविनांमध्ये कवितमं अत्यंतंकविं यत्र यस्मिन्काले गृणानः स्तोतृभिःस्तूयमानः त्वं बाधिताय दारिद्भ्यादि- भिःपीडिताय दिवे स्तोत्रेजनाय तन्वे स्तोतॄणांतनयायच वरिवोधनं करः अकरोः अददाः अथवा हेदेवेन्द्र अथास्मिन्काले विश्वे सर्वेदेवाः सुराः अहिर्वृत्रएवोच्यते तस्यहननाय कवीमांकवितमंत्वां अनुमदन्ति यत्र यस्मिंस्तोत्रेसति बाधितायासुरैःपीडिताय दिवे द्युलोकनिवा- सायजनाय तन्वे शोभायै वृत्रहननेन तवशोभार्थं वरिवश्चकर्थ ॥ १४ ॥