स यु॒ध्मः सत्वा᳚ खज॒कृत्स॒मद्वा᳚ तुविम्र॒क्षो न᳚दनु॒मा{4} ऋ᳚जी॒षी ।
बृ॒हद्रे᳚णु॒श्च्यव᳚नो॒ मानु᳚षीणा॒मेकः᳚ कृष्टी॒नाम᳚भवत्स॒हावा᳚ ॥
बृ॒हद्रे᳚णु॒श्च्यव᳚नो॒ मानु᳚षीणा॒मेकः᳚ कृष्टी॒नाम᳚भवत्स॒हावा᳚ ॥
पदपाठः (Word-by-word)
सः । यु॒ध्मः । सत्वा᳚ । ख॒ज॒॑कृत् । स॒मत्॑वा᳚ । तु॒वि॒॑म्र॒क्षः । न॒द॒नु॒॑मान् । ऋ॒जी॒षी ।
बृ॒हत्॑रे᳚णुः । च्यव᳚नः । मानु᳚षीणाम् । एकः᳚ । कृ॒ष्टी॒नाम् । अ॒भ॒व॒त् । स॒ह॑वा᳚ ॥
बृ॒हत्॑रे᳚णुः । च्यव᳚नः । मानु᳚षीणाम् । एकः᳚ । कृ॒ष्टी॒नाम् । अ॒भ॒व॒त् । स॒ह॑वा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
बृहद्रेणुः बृहतोमहतोरेणोः पांसोरुत्थापकः संग्रामेष्वितियावत् एकोमुख्यः सहावा बलवान् सइन्द्रः मानुषीणां मनोःसंबन्धिनीनां कृ- ष्टीनां प्रजानांयजमानानां च्यवनः अभिगन्ता अभवत् आसीत् कीदृशः युध्मोयोद्धा सत्त्वादाता सनोतेर्भेदनार्थस्येदंरूपं खजकृत् खजानां- संग्रामाणांकर्ता खजइतिसंग्रामनामैतत् समद्वा यजमानैःसहमदःसमत् तद्वान् तुविम्रक्षः मृक्षतिःसंस्नेहकर्मा तुवीनां बहूनां वर्षणेन संस्नेह- नकर्ता नदनुमान् शब्दवान् ऋजीषी ऋजीषशब्देन्सवनद्वयाभिषुतः पुनस्तृतीयसवनेप्यभिषुतः सोमउच्यते तद्वत् ॥ २ ॥