श्रवणम्

6.18.4
सदिद्धि ते᳚ तुविजा॒तस्य॒ मन्ये॒ सहः᳚ सहिष्ठ तुर॒तस्तु॒रस्य᳚ ।
उ॒ग्रमु॒ग्रस्य᳚ त॒वस॒स्तवी॒यो॑र᳚ध्रस्य रध्र॒तुरो᳚ बभूव ॥
▶ पदपाठः (Word-by-word)
सत् । इत् । हि । ते॒ । तु॒वि॒॑जा॒तस्य᳚ । मन्ये᳚ । सहः᳚ । स॒हि॒ष्ठ॒ । तु॒र॒तः । तु॒रस्य᳚ ।
उ॒ग्रम् । उ॒ग्रस्य᳚ । त॒वसः᳚ । तवी᳚यः । अर᳚ध्रस्य । र॒ध्र॒॑तुरः᳚ । ब॒भू॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमंत्रे इन्द्र्स्यबलसदसद्भावं सन्दिह्यानयाबलमस्त्येवेत्यव्धारयन्नाह हियस्मादर्थे यस्मात्कारणात् हेसहिष्ठ बलवत्त् मेन्द्र तुविजात- स्य बहुयज्ञेषुप्रादुर्भूतस्य तुरतः अस्मान्हिंसतः तुरस्यशत्रूणांहिंसितुःबलवतोवा तेतव सहोबलं सदित् विद्यमानमेवाहंमन्ये उग्रस्य ओज- स्विनः तवसः प्रवृद्धस्य अरध्रस्य शत्रुभिर्वशीकर्तुमशक्यस्य रधेर्वशीकरणार्थस्यरूपं रध्रतुरः वशीकरणीयानांसपत्नानांहिंसकस्यतव बलं बभूव भवत्येव कीदृशं उग्रं उद्गूर्णं तवीयः प्रवृद्धतरं यतस्त्वंवृत्रादीन् शत्रून् हंसि अतस्तेबलंविद्यतएवेत्यर्थः ॥ ४ ॥