श्रवणम्

6.18.11
आ स॒हस्रं᳚ प॒थिभि᳚रिन्द्र रा॒या तुवि᳚द्युम्न तुवि॒वाजे᳚भिर॒र्वाक् ।
या॒हि सू᳚नो सहसो॒ यस्य॒ नू चि॒ददे᳚व॒ ईशे᳚ पुरुहूत॒ योतो᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । स॒हस्र᳚म् । प॒थि॑भिः᳚ । इ॒न्द्र॒ । रा॒या । तुवि᳚॑द्युम्न । तु॒वि॒॑वाजे᳚भिः । अ॒र्वाक् ।
या॒हि । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । यस्य᳚ । नु । चि॒त् । अदे᳚वः । ईशे᳚ । पु॒रु॒॑हू॒त॒ । योतोः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेतुविद्युम्न बहुधन हेसहसःसूनो बलस्यपुत्रेन्द्र ओजसोजातमुतमन्यएनमितिनिगमान्तरे बलपुत्रत्वंप्रसिद्धं राया धनेन युक्तस्त्वं सहस्रं सहस्रेण बहुभिरित्यर्थः तुविवाजेभिः बहुबलैः पथिभिः पतन्ति गच्छंत्यमीभिरितिपंथानोवाहाः तैअर्वाक् मदभिमुखःसन् आयाह्यागच्छ हेपुरुहूत बहुभिराहूतेन्द्र यस्यतव योतोः बलादिभिःपृथक्कर्तुं अदेवः कश्चिदसुरः नूचिदीशे नेष्टेअत्रन् चिदितिनिषेधार्थेवर्तते ॥ ११ ॥