श्रवणम्

6.18.15
अनु॒ द्यावा᳚पृथि॒वी तत्त॒ ओजो॑म᳚र्त्या जिहत इन्द्र दे॒वाः ।
कृ॒ष्वा कृ᳚त्नो॒ अकृ᳚तं॒ यत्ते॒ अस्त्यु॒क्थं नवी᳚यो जनयस्व य॒ज्ञैः ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । द्यावा᳚पृथि॒वी इति᳚ । तत् । ते॒ । ओजः᳚ । अम᳚र्त्याः । जि॒ह॒ते॒ । इ॒न्द्र॒ । दे॒वाः ।
कृ॒ष्व । कृ॒त्नो॒ इति᳚ । अकृ᳚तम् । यत् । ते॒ । अस्ति᳚ । उ॒क्थम् । नवी᳚यः । ज॒न॒य॒स्व॒ । य॒ज्ञैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ते त्वदीयं तत्प्रसिद्धमोजोबलं द्यावापृथिवी अनुजिहते अनुजिहाते अमर्त्याअमरणधर्माणोदेवास्त्वदीयंबलं अनुजिहाते अनुग- च्छन्ति हेकृत्नो बहूनांकर्मणांकर्तः तेत्वदीयं अकृतं यत् कर्मास्ति तत्कृष्व कुरुष्व तदनन्तरं यज्ञैर्यज्ञेषु नवीयोनवतरं उक्थं स्तोत्रं जनयस्व ॥ १५ ॥

महाँइन्द्रइतित्रयोदशर्चंचतुर्थंसूक्तं भरद्वाजस्यार्षं त्रिष्टुभमैन्द्रं अनुक्रान्तंच महान्सप्तोनेति माध्यंदिनसवनेसोमातिरेकेएकंशस्त्रंभवति तत्रेदंसूक्तं सूत्रितंच—महाँइन्द्रोन्रुवद्विष्णोर्नुकमिति समूह्ळेद्वितीयेछन्दोमेमरुत्वतीयशस्त्रेएतत्सूक्तं सूत्रितंच महाँइन्द्रोनृवदितिमरुत्वती- यमिति ।