श्रवणम्

6.18.10
अ॒ग्निर्न शुष्कं॒ वन᳚मिन्द्र हे॒ती रक्षो॒ नि ध᳚क्ष्य॒शनि॒र्न भी॒मा ।
ग॒म्भी॒रय᳚ ऋ॒ष्वया॒ यो रु॒रोजाध्वा᳚नयद्दुरि॒ता द॒म्भय᳚च्च ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । न । शुष्क᳚म् । वन᳚म् । इ॒न्द्र॒ । हे॒ती । रक्षः᳚ । नि । ध॒क्षि॒ । अ॒शनिः᳚ । न । भी॒मा ।
ग॒म्भी॒रया᳚ । ऋ॒ष्वया᳚ । यः । रु॒रोज᳚ । अध्व᳚नयत् । दुः॒॑इ॒ता । द॒म्भय᳚त् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्न अग्निरिव नशब्दउपमार्थीयः यथाअग्निःशुष्कंनीरसंवनंवृक्षसमूहंदहति हेइन्द्र हेतिस्त्वदीयंवज्रं तद्वच्छत्रून्नाशयति तदेवाह अशनिर्नभीमा यथाअशनिर्भीमाभवति तद्वद्भयंकरस्त्वं रक्षोराक्षसं निधक्षि वज्रेण नितरांदह यइन्द्रः गंभीरया शत्रुभिरधर्षणीयया ऋष्वया महत्या ऋष्वइतिमहन्नामैतत् हेत्या रुरोज शत्रून्बभंज अध्वनयत् युद्धेगर्जनलक्षणंशब्दंकरोति तथाच दुरिता दुरितानि दंभ- यच्चभिनत्तिच सत्वंरक्षोनिधक्षीतिपूर्वेणान्वयः ॥ १० ॥