श्रवणम्

6.18.8
स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु᳚नामा॒ चुमु᳚रिं॒ धुनिं᳚ च ।
वृ॒णक्पिप्रुं॒ शम्ब᳚रं॒ शुष्ण॒मिन्द्र᳚ः पु॒रां च्यौ॒त्नाय᳚ श॒यथा᳚य॒ नू चि᳚त् ॥
▶ पदपाठः (Word-by-word)
सः । यः । न । मु॒हे । न । मिथु᳚ । जनः᳚ । भूत् । सु॒मन्तु᳚॑नामा । चुमु᳚रिम् । धुनि᳚म् । च॒ ।
वृ॒णक् । पिप्रु᳚म् । शम्ब᳚रम् । शुष्ण᳚म् । इन्द्रः᳚ । पु॒राम् । च्यौ॒त्नाय᳚ । श॒यथा᳚य । नु । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः न मुहे संग्रामेकदापिनमुह्यति यश्च मिथु मिथ्यावृथा जनोजनयितानभून्नभवति किंतु सुमन्तुनामा प्रज्ञाननामा प्रख्यातनामे- त्यर्थः सइन्द्रः पुरां शत्रुसंबन्धिनीनांपुरीणां च्यौत्नाय च्यवनाय नाशाय शयथाय शत्रूणांमरणायच नूचित् शीघ्रमेवकर्मकुरुतइतिशेषः त- था चुमुरिंधुनिंच एतन्नामकावसुरौ वृणगवृणक् हिंसितवानसि वृणक्तिर्हिंसाकर्मा अपिच पिप्रुं शंबरं शुष्णं एतन्नामकान् त्रीनसुरान् हिं- सितवानसि ॥ ८ ॥