त्वं ह॒ नु त्यद᳚दमायो॒ दस्यू{4}॒रेकः᳚ कृ॒ष्टीर᳚वनो॒रार्या᳚य ।
अस्ति᳚ स्वि॒न्नु वी॒र्यं१॒᳚ तत्त᳚ इन्द्र॒ न स्वि᳚दस्ति॒ तदृ᳚तु॒था वि वो᳚चः ॥
अस्ति᳚ स्वि॒न्नु वी॒र्यं१॒᳚ तत्त᳚ इन्द्र॒ न स्वि᳚दस्ति॒ तदृ᳚तु॒था वि वो᳚चः ॥
पदपाठः (Word-by-word)
त्वम् । ह॒ । नु । त्यत् । अ॒द॒म॒यः॒ । दस्यू᳚न् । एकः᳚ । कृ॒ष्टीः । अ॒व॒नोः॒ । आर्या᳚य ।
अस्ति᳚ । स्वि॒त् । नु । वी॒र्य᳚म् । तत् । ते॒ । इ॒न्द्र॒ । न । स्वि᳚त् । अ॒स्ति॒ । तत् । ऋ॒तु॒॑था । वि । वो॒चः॒ ॥
अस्ति᳚ । स्वि॒त् । नु । वी॒र्य᳚म् । तत् । ते॒ । इ॒न्द्र॒ । न । स्वि᳚त् । अ॒स्ति॒ । तत् । ऋ॒तु॒॑था । वि । वो॒चः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्यत् सः सत्वं त्यदितितच्छब्दपर्यायोत्रलिंगव्यत्ययः दस्यून् कर्महीनान् जनान् नु क्षिप्रं अदमयः दान्तानकरोः हशब्दःपूरणार्थः अपिच एकोमुख्यः त्वंकृष्टीः पुत्रदासादीन् आर्याय कर्मकृतेजनाय अवनोरददाः एवंस्तुवन्नप्यृषिरिन्द्रंयदानाद्राक्षीत् तदा तस्यवीर्यसद्भा- वेविचिकित्समानः परार्धर्चमाह हेइन्द्रते तव यत्पूर्वमुक्तं तद्वीर्यं सामर्थ्यं स्विन्वस्ति किंस्विद्भवति किंस्विन्न्वितिविचिकित्सायां नस्विद- स्ति यद्वा नास्तितद्बलं ऋतुथा कालेकाले विवोचः विशेषेणब्रूहि ॥ ३ ॥