स म॒ज्मना॒ जनि᳚म॒ मानु᳚षाणा॒मम᳚र्त्येन॒ नाम्नाति॒ प्र स᳚र्स्रे ।
स द्यु॒म्नेन॒ स शव᳚सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत᳚म॒ः समो᳚काः ॥
स द्यु॒म्नेन॒ स शव᳚सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत᳚म॒ः समो᳚काः ॥
पदपाठः (Word-by-word)
सः । म॒ज्मना᳚ । जनि᳚म । मानु᳚षाणाम् । अम᳚र्त्येन । नाम्ना᳚ । अति᳚ । प्र । स॒र्स्रे॒ ।
सः । द्यु॒म्नेन᳚ । सः । शव᳚सा । उ॒त । रा॒या । सः । वी॒र्ये᳚ण । नृ॑त᳚मः । सम्॑ओ᳚काः ॥
सः । द्यु॒म्नेन᳚ । सः । शव᳚सा । उ॒त । रा॒या । सः । वी॒र्ये᳚ण । नृ॑त᳚मः । सम्॑ओ᳚काः ॥
सायणभाष्यम् (Sayana Commentary)
सइन्द्रः अमर्त्येन विनाशरहितेन नाम्ना श्त्रूणांनमयित्रा मज्मना बलेन मज्मनेतिबलनामैतत् मानुषाणां मनुष्याणां जनिम जन्मसंघ- मित्यर्थः अतिप्रसर्स्रे अतिप्रपेदे सइन्द्रः द्युम्नेन यशसा समोकाः समनस्थानोभवति किंच सइन्द्रः शवसा बलेन समोकाभवति उतापिच नृतमोनेतृतमः सइन्द्रः राया धनेन वीर्येण सामर्थ्येनच समोकाभवति ॥ ७ ॥