तन्न᳚ः प्र॒त्नं स॒ख्यम᳚स्तु यु॒ष्मे इ॒त्था वद᳚द्भिर्व॒लमङ्गि᳚रोभिः ।
हन्न᳚च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚ अस्य॒ विश्वा᳚ः ॥
हन्न᳚च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚ अस्य॒ विश्वा᳚ः ॥
पदपाठः (Word-by-word)
तत् । नः॒ । प्र॒त्नम् । स॒ख्यम् । अ॒स्तु॒ । यु॒ष्मे इति᳚ । इ॒त्था । वद᳚त्॑भिः । व॒लम् । अङ्गि᳚रः॑भिः ।
हन् । अ॒च्यु॒त॒॑च्यु॒त् । द॒स्म॒ । इ॒षय᳚न्तम् । ऋ॒णोः । पुरः᳚ । वि । दुरः᳚ । अ॒स्य॒ । विश्वाः᳚ ॥
हन् । अ॒च्यु॒त॒॑च्यु॒त् । द॒स्म॒ । इ॒षय᳚न्तम् । ऋ॒णोः । पुरः᳚ । वि । दुरः᳚ । अ॒स्य॒ । विश्वाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
प्रत्नं पुराणं चिरकालानुवर्तीत्यर्थः तत्प्रसिद्धं नोस्मदीयं सख्यं स्तुत्यस्तोतृलक्षणं सखित्वं हेइन्द्र युष्मे युष्मास्वस्तु पूजार्थंबहुवचनं हे- अच्युतच्युत् अच्युतानां अविचलितानांच्यावक हेदस्म दर्शनीयेन्द्रत्वं इषयन्तं आयुधानिप्रेरयन्तं बलमेतन्नामानमसुरं इत्था सत्यमेव वद- द्भिस्त्वांस्तुवद्भिरंगिरोभिःसह हन् हतवानसि अपिच अस्यबलस्य पुरः नगराणि व्यृणोः व्यगमयः वियुक्तान्यकार्षीरित्यर्थःविश्वाः सर्वा: दुरः पुरीणांद्वारश्चव्युणोः ॥ ५ ॥