उ॒दाव᳚ता॒ त्वक्ष᳚सा॒ पन्य᳚सा च वृत्र॒हत्या᳚य॒ रथ᳚मिन्द्र तिष्ठ ।
धि॒ष्व वज्रं॒ हस्त॒ आ द᳚क्षिण॒त्राभि प्र म᳚न्द पुरुदत्र मा॒याः ॥
धि॒ष्व वज्रं॒ हस्त॒ आ द᳚क्षिण॒त्राभि प्र म᳚न्द पुरुदत्र मा॒याः ॥
पदपाठः (Word-by-word)
उ॒त्॑अव᳚ता । त्वक्ष᳚सा । पन्य᳚सा । च॒ । वृ॒त्र॒॑हत्या᳚य । रथ᳚म् । इ॒न्द्र॒ । ति॒ष्ठ॒ ।
धि॒ष्व । वज्र᳚म् । हस्ते᳚ । आ । द॒क्षि॒ण॒॑त्रा । अ॒भि । प्र । म॒न्द॒ । पु॒रु॒॑द॒त्र॒ । मा॒याः ॥
धि॒ष्व । वज्र᳚म् । हस्ते᳚ । आ । द॒क्षि॒ण॒॑त्रा । अ॒भि । प्र । म॒न्द॒ । पु॒रु॒॑द॒त्र॒ । मा॒याः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र उदवतोद्गच्छता अवतिरत्रगतिकर्मा त्वक्षसा शत्रूणांतनूकर्त्रा पन्यसा स्तुत्यतरेणबलेनयुक्तस्त्वं वृत्रहत्याय शत्रुहननाय स्वकी- यंरथंच तिष्ठ आरोह तथा दक्षिणत्रा दक्षिणहस्तेपाणौ वज्रं स्वकीयमायुधं आधिष्व आधत्स्व तदनंतरं हेपुरुदत्र बहुधनेन्द्र त्वं आसुरी- र्मायाः अभि अभिगम्य प्रमन्द प्रकर्षेण जहि अत्रमन्दतिर्वधकर्मा ॥ ९ ॥