हु॒वे वो᳚ दे॒वीमदि᳚तिं॒ नमो᳚भिर्मृळी॒काय॒ वरु᳚णं मि॒त्रम॒ग्निम् ।
अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान्त्स᳚वि॒तारं॒ भगं᳚ च ॥
अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान्त्स᳚वि॒तारं॒ भगं᳚ च ॥
पदपाठः (Word-by-word)
हु॒वे । वः॒ । दे॒वीम् । अदि᳚तिम् । नमः᳚॑भिः । मृ॒ळी॒काय᳚ । वरु᳚णम् । मि॒त्रम् । अ॒ग्निम् ।
अ॒भि॒॑क्ष॒दाम् । अ॒र्य॒मण᳚म् । सु॒॑शेव᳚म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार᳚म् । भग᳚म् । च॒ ॥
अ॒भि॒॑क्ष॒दाम् । अ॒र्य॒मण᳚म् । सु॒॑शेव᳚म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार᳚म् । भग᳚म् । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः वोयुष्माकंमातरंदेवींद्योतमानां अदितिंअखंडनीयां अदीनांवा एतत्संज्ञांदेवतांमृळीकायसुखार्थंनमोभिः नमस्कारैः स्तोत्रैर्वाहु- वे ह्वयामि स्तौमि तथावरुणंवारकं मित्रंप्रमीतेस्त्रायकं देवं अग्निंचएतांश्चदेवान् नमोभिर्हुवेतथाअभिक्षदां क्षदिर्हिंसाकर्मा अभिक्षत्तारं शत्रूणां हिंसितारं सुशेवं सुसुखंअर्यमणंचनमोभिर्हुवे सवितारंभगंचनमोभीर्हुवे किंबहुना त्रातॄन् पालयितॄन् सर्वान् देवान् नमोभिः स्तोत्रै- र्हुवेस्तौमि ॥ १ ॥