ए॒वा नपा᳚तो॒ मम॒ तस्य᳚ धी॒भिर्भ॒रद्वा᳚जा अ॒भ्य᳚र्चन्त्य॒र्कैः ।
ग्ना हु॒तासो॒ वस॒वो॑धृ᳚ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ॥
ग्ना हु॒तासो॒ वस॒वो॑धृ᳚ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ॥
पदपाठः (Word-by-word)
ए॒व । नपा᳚तः । मम᳚ । तस्य᳚ । धी॒भिः । भ॒रत्॑वा᳚जाः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
ग्नाः । हु॒तासः᳚ । वस᳚वः । अधृ᳚ष्टाः । विश्वे᳚ । स्तु॒तासः᳚ । भू॒त॒ । य॒ज॒त्राः॒ ॥
ग्नाः । हु॒तासः᳚ । वस᳚वः । अधृ᳚ष्टाः । विश्वे᳚ । स्तु॒तासः᳚ । भू॒त॒ । य॒ज॒त्राः॒ ॥
सायणभाष्यम् (Sayana Commentary)
एवएवं योहंदेवान्स्तुतवान् तस्यममऋजिश्वनोनपातः पुत्राः भरद्वाजाः भरद्वाजगोत्रजाः सुहोत्रादयः धीभीः स्तोत्रैरर्कैरर्चन्साधनैर- भ्यर्चन्ति अभिष्टुवन्ति हेयजत्राः यष्टव्यादेवाहुतासः पुरोडाशादिभिर्हविर्भिर्हुताःतर्पिताः वस्वोनिवासयितारः अधृष्टाः कैरप्यहिंसिताः एवंभूताः विश्वेतेसर्वेयूयंग्नाः देवपत्न्यश्च स्तुतासोभूत तैःसुहोत्रादिभिः स्तुताभवत ॥ १५ ॥
उदुत्यदितिषोडशर्चंद्वितीयंसूक्तंऋजिश्वनआर्षंवैश्वदेवं त्रयोदश्याद्यास्तिस्रउष्णिहः षोळश्यनुष्टुप् शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं— उदुत्यत्षोळशत्र्युष्णिगनुष्टुबन्तमिति । गतः सूक्तविनियोगः ।