श्रवणम्

6.50.2 समानपद
सु॒ज्योति᳚षः सूर्य॒ दक्ष᳚पितॄननागा॒स्त्वे सु᳚महो वीहि दे॒वान् ।
द्वि॒जन्मा᳚नो॒ य ऋ᳚त॒सापः᳚ स॒त्याः स्व᳚र्वन्तो यज॒ता अ᳚ग्निजि॒ह्वाः ॥
▶ पदपाठः (Word-by-word)
सु॒॑ज्योति᳚षः । सू॒र्य॒ । दक्ष᳚॑पितॄन् । अ॒ना॒गाः॒॑त्वे । सु॒॑म॒हः॒ । वी॒हि॒ । दे॒वान् ।
द्वि॒॑जन्मा᳚नः । ये । ऋ॒त॒॑सापः᳚ । स॒त्याः । स्वः᳚॑वन्तः । य॒ज॒ताः । अ॒ग्नि॒॑जि॒ह्वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुमहः शोभनदीप्ते सूर्य सर्वस्यप्रेरक दक्षपितॄन्दक्षः पितामहोयेषांतेदक्षपितरः पितृशब्दोहिसामान्येनपूर्वपुरुषत्वमात्रंब्रूते यथाआहं- पितॄन्त्सुविदत्राँअवित्सीति । एषांदक्षपितृत्वंचअदितिर्ह्यजनिष्टेतिमंत्रादवगम्यते । ईदृशान् ज्योतिषः शोभनज्योतिष्कान् देवान् अना- गास्त्वेअनपराधत्वे वीहिकामयस्व यथास्माकंअपराधंतेनकुर्वन्तितथाकुर्याइत्यर्थः येदेवाः द्विजन्मानः द्वयोर्लोकयोर्जायमानाःप्रादुर्भवन्तः ऋतसापः ऋतंयज्ञंस्पृशन्तः सत्याःअवितथाः सत्यवादिनोवा स्वर्वन्तोधनवन्तः यजतायष्टव्याः अग्निजिह्वाः अग्निः जिह्वास्थनीयोयेषां- ते एवंभूतायेदेवाः सन्ति तान् देवान्वीहीत्यन्वयः ॥ २ ॥