श्रवणम्

6.50.14
उ॒त नो॑हि᳚र्बु॒ध्न्य᳚ः शृणोत्व॒ज एक᳚पात्पृथि॒वी स᳚मु॒द्रः ।
विश्वे᳚ दे॒वा ऋ᳚ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मन्त्रा᳚ः कविश॒स्ता अ᳚वन्तु ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । अहिः᳚ । बु॒ध्न्यः᳚ । शृ॒णो॒तु॒ । अ॒जः । एक᳚॑पात् । पृ॒थि॒वी । स॒मु॒द्रः ।
विश्वे᳚ । दे॒वाः । ऋ॒त॒॑वृधः᳚ । हु॒वा॒नाः । स्तु॒ताः । मन्त्राः᳚ । क॒वि॒॑श॒स्ताः । अ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतपिचअहिर्बुध्न्योनोस्माकंस्तोत्रंश्रृणोतु अजोजन्मरहितः एकः असहायएवपद्यतेगच्छतीत्येकपात् एतत्पद्वयाभिधेयोदेव श्चपृथिवी- समुद्रश्चअस्मदीयंस्तोत्रंश्रृणोतु अपिच ऋतावृधः ऋतस्ययज्ञस्यसत्यस्यवावर्धयितारः हुवानाः अस्माभिराहूयमानाः पूर्वैः ऋषिभिश्च- स्तोत्रैः स्तुताः मंत्राः मंत्रणीयाः गुप्तंभाषितव्याः मंत्रप्रतिपाद्यावा कविशस्ताः कविभिर्मेधाविभिरृषिभिः शस्त्रैः शंसिताईदृशाःविश्वेदेवाः अचन्त्वस्मान् रक्षन्तु ॥ १४ ॥