ओ॒मान᳚मापो मानुषी॒रमृ᳚क्तं॒ धात᳚ तो॒काय॒ तन᳚याय॒ शं योः ।
यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत᳚मा॒ विश्व᳚स्य स्था॒तुर्जग᳚तो॒ जनि᳚त्रीः ॥
यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत᳚मा॒ विश्व᳚स्य स्था॒तुर्जग᳚तो॒ जनि᳚त्रीः ॥
पदपाठः (Word-by-word)
ओ॒मान᳚म् । आ॒पः॒ । मा॒नु॒षीः॒ । अमृ᳚क्तम् । धात᳚ । तो॒काय᳚ । तन᳚याय । शम् । योः ।
यू॒यम् । हि । स्थ । भि॒षजः᳚ । मा॒तृ॑त᳚माः । विश्व᳚स्य । स्था॒तुः । जग᳚तः । जनि᳚त्रीः ॥
यू॒यम् । हि । स्थ । भि॒षजः᳚ । मा॒तृ॑त᳚माः । विश्व᳚स्य । स्था॒तुः । जग᳚तः । जनि᳚त्रीः ॥
सायणभाष्यम् (Sayana Commentary)
हेआपः मानुषीर्मनुष्यहितायूयंअमृक्तमहिंसितं ओमानंअवतिरक्षतीत्योमारक्षकमन्नंतोकायपुत्रायतनयायतत्पुत्रायचधात धत्त प्रय- च्छत तथाशंशमनमुपद्रवाणांयोर्यावनंपृथक्करणंच पृथक्कर्तव्यानांधत्त प्रयच्छत कुतइत्यतआह—हियस्माद्यूयंमातृतमाः मातृभ्योप्यधिका- भिषजः स्थाभवथ तस्माद्धातेत्यन्वयः कथं मातृभ्योप्यधिकंभैषज्यमस्तीत्यतआह—विश्वस्यसर्वस्य स्थातुः स्थावरस्यजगतोजंगमत्यज- नित्रीर्जनयित्र्योभवथ अतोयूयंभिषजःस्थ ॥ ७ ॥