आ नो᳚ दे॒वः स᳚वि॒ता त्राय᳚माणो॒ हिर᳚ण्यपाणिर्यज॒तो ज᳚गम्यात् ।
यो दत्र᳚वा{4} उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि ॥
यो दत्र᳚वा{4} उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि ॥
पदपाठः (Word-by-word)
आ । नः॒ । दे॒वः । स॒वि॒ता । त्राय᳚माणः । हिर᳚ण्य॑पाणिः । य॒ज॒तः । ज॒ग॒म्या॒त् ।
यः । दत्र᳚॑वान् । उ॒षसः᳚ । न । प्रती᳚कम् । वि॒॑ऊ॒र्णु॒ते । दा॒शुषे᳚ । वार्या᳚णि ॥
यः । दत्र᳚॑वान् । उ॒षसः᳚ । न । प्रती᳚कम् । वि॒॑ऊ॒र्णु॒ते । दा॒शुषे᳚ । वार्या᳚णि ॥
सायणभाष्यम् (Sayana Commentary)
त्रायमाणोरक्षन् हिरण्यपाणीः सुवर्णहस्तः हितरमणीयपाणिर्वा यजतोयष्टव्यः एवंभूतः सविताप्रेरकोदेवः नःअस्मान् आजगम्यादा- गच्छतु योदेवः दत्रवान् धनवान् उषसोनप्रतीकं उषसः प्रमुखमिव दाशुषेहवींषिदत्तवतेयजमानाय वार्याणि वरणीयानिधनानिव्यूर्णुते विवृणोति प्रकाशयति ससवितेत्यन्वयः ॥ ८ ॥