उ॒त स्य दे॒वः स᳚वि॒ता भगो᳚ नो॒॑पां नपा᳚दवतु॒ दानु॒ पप्रि᳚ः ।
त्वष्टा᳚ दे॒वेभि॒र्जनि᳚भिः स॒जोषा॒ द्यौर्दे॒वेभि᳚ः पृथि॒वी स᳚मु॒द्रैः ॥
त्वष्टा᳚ दे॒वेभि॒र्जनि᳚भिः स॒जोषा॒ द्यौर्दे॒वेभि᳚ः पृथि॒वी स᳚मु॒द्रैः ॥
पदपाठः (Word-by-word)
उ॒त । स्यः । दे॒वः । स॒वि॒ता । भगः᳚ । नः॒ । अ॒पाम् । नपा᳚त् । अ॒व॒तु॒ । दानु᳚ । पप्रिः᳚ ।
त्वष्टा᳚ । दे॒वेभिः᳚ । जनि᳚॑भिः । स॒॑जोषाः᳚ । द्यौः । दे॒वेभिः᳚ । पृ॒थि॒वी । स॒मु॒द्रैः ॥
त्वष्टा᳚ । दे॒वेभिः᳚ । जनि᳚॑भिः । स॒॑जोषाः᳚ । द्यौः । दे॒वेभिः᳚ । पृ॒थि॒वी । स॒मु॒द्रैः ॥
सायणभाष्यम् (Sayana Commentary)
उतापिच स्यः सः यः प्रेरकतयासर्वत्रप्रख्यातः ससवितादेवः भगश्चअपांनपाच्चअपांमेघस्थानांपुत्रोमाध्यमिकोग्निः सचनोस्मान् रक्षतु कीदृशोपांनपात् दानु दातव्यंधनंपप्रिः प्रातापूरयिता प्रापूरणइत्यस्मादादृगमहनइतिकिनोलिड्ढद्भावान्नलोकाव्ययेतिषष्ठीप्रतिषेधः तथा- देवेभिर्देवैः जनिभिस्तत्पत्नीभिश्चसजोषाः सहप्रीतिस्त्वष्टाचदेवेभिर्देवैः सहप्रीयमाणा द्यौश्चसमुद्रैः सहप्रीयमाणा पृथिवीचएताश्चसर्वादे- वताअस्मानवन्तु ॥ १३ ॥ आग्निमारुतेउतनोहिरित्येषा सूत्रितंच—उतनोहिर्बुध्न्यः श्रृणोतुदेवानांपत्नीरुशतीरवन्तुनइति ।