श्रवणम्

6.50.12
ते नो᳚ रु॒द्रः सर᳚स्वती स॒जोषा᳚ मी॒ळ्हुष्म᳚न्तो॒ विष्णु᳚र्मृळन्तु वा॒युः ।
ऋ॒भु॒क्षा वाजो॒ दैव्यो᳚ विधा॒ता प॒र्जन्या॒वाता᳚ पिप्यता॒मिषं᳚ नः ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । रु॒द्रः । सर᳚स्वती । स॒॑जोषाः᳚ । मी॒ळ्हुष्म᳚न्तः । विष्णुः᳚ । मृ॒ळ॒न्तु॒ । वा॒युः ।
ऋ॒भु॒क्षाः । वाजः᳚ । दैव्यः᳚ । वि॒॑धा॒ता । प॒र्जन्या॒वाता᳚ । पि॒प्य॒ता॒म् । इष᳚म् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मीह्ळुष्मन्तोवर्षणवन्तः तेदेवाः नोस्मान् मृळन्तुमृळयन्तुसुखयन्तु केतेइतिचेदुच्यते—रुद्रःसरस्वतीचसजोषाः सहप्रीयमाणाःविष्णु- र्वायुश्चऋभुक्षाः ऋभुर्विभ्वावाजइतित्रयः सौधन्वनाः तेषामाद्यः ऋभुश्चवाजोन्तिमश्चउपलक्शणमेतत् विश्वाचदैव्योदेवेभ्योहितः विधा- ताप्रजापतिश्च अपिचपर्जन्यावातापर्जन्यश्चवायुश्चउभौ नोस्मभ्यमिषमन्नंपिप्यतांवर्धयतां ॥ १२ ॥