श्रवणम्

6.50.6
अ॒भि त्यं वी॒रं गिर्व᳚णसम॒र्चेन्द्रं॒ ब्रह्म᳚णा जरित॒र्नवे᳚न ।
श्रव॒दिद्धव॒मुप᳚ च॒ स्तवा᳚नो॒ रास॒द्वाजा{4}॒ उप᳚ म॒हो गृ᳚णा॒नः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्यम् । वी॒रम् । गिर्व᳚णसम् । अ॒र्च॒ । इन्द्र᳚म् । ब्रह्म᳚णा । ज॒रि॒तः॒ । नवे᳚न ।
श्रव᳚त् । इत् । हव᳚म् । उप᳚ । च॒ । स्तवा᳚नः । रास᳚त् । वाजा᳚न् । उप᳚ । म॒हः । गृ॒णा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेजरितःस्तोतः त्यंतंप्रसिद्धंवीरंवीर्यवन्तंविशेषेणशत्रूणामीरकंवा गिर्वणसंगिरांसभक्तारं एवंविधमिन्द्रंनवेनाभिनवेनशोभनेनब्रह्म- णास्तोत्रेण अभ्यर्चअभिष्टुहि सचस्तवा स्तूयमानः सन् हवमस्मदीयंस्तोत्रंउपश्रवदित् उपश्रृणुयादेव अपिच गृणानःस्तूयमानइन्द्रः महो- महतः प्रभूतान् वाजान् अन्नानिचउपरासत् प्रदेयात् यतएवं अतः रतुहीत्यर्थः ॥ ६ ॥