उ॒त त्वं सू᳚नो सहसो नो अ॒द्या दे॒वा{4} अ॒स्मिन्न᳚ध्व॒रे व᳚वृत्याः ।
स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव᳚ स्याम॒ग्ने॑व᳚सा सु॒वीरः᳚ ॥
स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव᳚ स्याम॒ग्ने॑व᳚सा सु॒वीरः᳚ ॥
पदपाठः (Word-by-word)
उ॒त । त्वम् । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । नः॒ । अ॒द्य । आ । दे॒वान् । अ॒स्मिन् । अ॒ध्व॒रे । व॒वृ॒त्याः॒ ।
स्याम् । अ॒हम् । ते॒ । सद᳚म् । इत् । रा॒तौ । तव᳚ । स्या॒म् । अ॒ग्ने॒ । अव᳚सा । सु॒॑वीरः᳚ ॥
स्याम् । अ॒हम् । ते॒ । सद᳚म् । इत् । रा॒तौ । तव᳚ । स्या॒म् । अ॒ग्ने॒ । अव᳚सा । सु॒॑वीरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उतअपिच हेसहसः सूनो बलस्यपुत्राग्ने त्वंअद्यास्मिन्कालेनो स्मदीयेअस्मिन्नध्वरेयागे देवान्यष्टव्यानिन्द्रादीन् आववृत्याः आवर्तयआ- गमय अपिचाहं तेतवरातौधनस्यदाने सदमित् सर्वदैवर्तमानःस्यांभवेयं तथाहेअग्ने तवावसात्वदीयेनरक्षणेनसुवीरः शोभनैः वीरैः पुत्रपौ- त्रादिभिरुपेतश्चस्यांभवेयं ॥ ९ ॥