श्रवणम्

6.50.10
उ॒त त्या मे॒ हव॒मा ज᳚ग्म्यातं॒ नास᳚त्या धी॒भिर्यु॒वम॒ङ्ग वि᳚प्रा ।
अत्रिं॒ न म॒हस्तम᳚सो॑मुमुक्तं॒ तूर्व᳚तं नरा दुरि॒ताद॒भीके᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्या । मे॒ । हव᳚म् । आ । ज॒ग्म्या॒त॒म् । नास᳚त्या । धी॒भिः । यु॒वम् । अ॒ङ्ग । वि॒प्रा॒ ।
अत्रि᳚म् । न । म॒हः । तम᳚सः । अ॒मु॒मु॒क्त॒म् । तूर्व᳚तम् । न॒रा॒ । दुः॒॑इ॒तात् । अ॒भीके᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच हेविप्रा प्राज्ञौ नासत्या सत्यस्वभावौ सत्यस्यनेतारौवा हे अश्विनौ त्यातौप्रसिद्धौयुवंयुवांधीभिः परिचरणकैः कर्मभिरुपेतं मेमदीयंहवंस्तोत्रंअंग क्षिप्रं आजग्म्यातं आगच्छतं आगत्यच महोमहतस्तमसःअसुरकृतादंधकारात् अत्रिंन यथात्रिमृषिंअमुमुक्तं मोचित- वन्तौस्थः हेनरानेतारावश्विनौ तथास्मानपिअभीकेअभ्यक्ते प्राप्तेसंग्रामेदुरिताद्दुः खातशत्रुकृतात् र्वतंअस्मांस्तारयतं ॥ १० ॥