आ नो᳚ रु॒द्रस्य᳚ सू॒नवो᳚ नमन्ताम॒द्या हू॒तासो॒ वस॒वो॑धृ᳚ष्टाः ।
यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒ अह्वा᳚म दे॒वान् ॥
यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒ अह्वा᳚म दे॒वान् ॥
पदपाठः (Word-by-word)
आ । नः॒ । रु॒द्रस्य᳚ । सू॒नवः᳚ । न॒म॒न्ता॒म् । अ॒द्य । हू॒तासः᳚ । वस᳚वः । अधृ᳚ष्टाः ।
यत् । ई॒म् । अर्भे᳚ । म॒ह॒ति । वा॒ । हि॒तासः᳚ । बा॒धे । म॒रुतः᳚ । अह्वा᳚म । दे॒वान् ॥
यत् । ई॒म् । अर्भे᳚ । म॒ह॒ति । वा॒ । हि॒तासः᳚ । बा॒धे । म॒रुतः᳚ । अह्वा᳚म । दे॒वान् ॥
सायणभाष्यम् (Sayana Commentary)
रुद्रस्यसूनवः पुत्रामरुतः अद्यास्मिन्कालेआहूतासः आहूताःसन्तः नोस्मान् प्रतिआनमन्तां आनताभवन्तु आगच्छन्तु कीदृशाः वसवो- वासयितारः अधृष्टाः अन्यैरहिंसिताः यद्यदाईमेनान्मरुतोदेवान अर्भेअल्पेमहतिप्रभूतेवाबाधेसंग्रामे हितासोनिहिताःस्थिताः सन्तोवयं अह्वाम आह्वयाम तदानीमद्येत्यन्वयः ॥ ४ ॥