श्रवणम्

6.50.11
ते नो᳚ रा॒यो द्यु॒मतो॒ वाज᳚वतो दा॒तारो᳚ भूत नृ॒वतः᳚ पुरु॒क्षोः ।
द॒श॒स्यन्तो᳚ दि॒व्याः पार्थि᳚वासो॒ गोजा᳚ता॒ अप्या᳚ मृ॒ळता᳚ च देवाः ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । रा॒यः । द्यु॒॑मतः᳚ । वाज᳚॑वतः । दा॒तारः᳚ । भू॒त॒ । नृ॒॑वतः᳚ । पु॒रु॒॑क्षोः ।
द॒श॒स्यन्तः᳚ । दि॒व्याः । पार्थि᳚वासः । गो॑जा᳚ताः । अप्याः᳚ । मृ॒ळत᳚ । च॒ । दे॒वाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवास्तेयूयंद्युमतोदीप्तिमतः वाजवतोबलयुक्तस्यनृवतः नृभिः पुत्रादिभिरुपेतस्य पुरुक्षोःबहुभिःकीर्तनीयस्य रायोधनस्यनोस्मभ्यं- दातारोभूतभवत अपिच दशस्यन्तः कामान् प्रयच्छन्तः दिव्याः दिविभवाआदित्याः पार्थिवासः पृथिव्यांभवावसवः गोजाताः गौः पृश्नि- र्माध्यमिकावाक् ततः उत्पन्नामरुतः अप्याः अप्सुअन्तरिक्षेभवाः रुद्राश्च तेसर्वेयूयंअस्मान्मृळ्त सुखयत ॥ ११ ॥