उ॒त द्या᳚वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो᳚दसी शर॒णं सु᳚षुम्ने ।
म॒हस्क᳚रथो॒ वरि᳚वो॒ यथा᳚ नो॒॑स्मे क्षया᳚य धिषणे अने॒हः ॥
म॒हस्क᳚रथो॒ वरि᳚वो॒ यथा᳚ नो॒॑स्मे क्षया᳚य धिषणे अने॒हः ॥
पदपाठः (Word-by-word)
उ॒त । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । क्ष॒त्रम् । उ॒रु । बृ॒हत् । रो॒द॒सी॒ इति᳚ । श॒र॒णम् । सु॒सु॒म्ने॒ इति᳚ सु॑सुम्ने ।
म॒हः । क॒र॒थः॒ । वरि᳚वः । यथा᳚ । नः॒ । अ॒स्मे इति᳚ । क्षया᳚य । धि॒ष॒णे॒ इति᳚ । अ॒ने॒हः ॥
म॒हः । क॒र॒थः॒ । वरि᳚वः । यथा᳚ । नः॒ । अ॒स्मे इति᳚ । क्षया᳚य । धि॒ष॒णे॒ इति᳚ । अ॒ने॒हः ॥
सायणभाष्यम् (Sayana Commentary)
उतापिच हेद्यावापृथिवी द्यावापृथिव्यौ उरुविस्तीर्णंक्षत्रंबलंकरथः कुरुतं तथारोदसीद्यावापृथिव्यौ सुषुम्ने सुसुखे युवांबृहन्महच्छर- णंगृहंचकरथः कुरुतं महोमहत् वरिवोधनंनोस्माकंयथस्यात् तथाकुरुतमित्यर्थः अपिच हेधिषणे धारयित्र्यौ द्यावापृथिव्यौ अनेहःपापरा- हित्यंचअस्मेअस्माकंक्षयायनिवासार्थंकुरुतं ॥ ३ ॥