त्री रो᳚च॒ना व᳚रुण॒ त्री{4}रु॒त द्यून्त्रीणि᳚ मित्र धारयथो॒ रजां᳚सि ।
वा॒वृ॒धा॒नाव॒मतिं᳚ क्ष॒त्रिय॒स्यानु᳚ व्र॒तं रक्ष᳚माणावजु॒र्यम् ॥
वा॒वृ॒धा॒नाव॒मतिं᳚ क्ष॒त्रिय॒स्यानु᳚ व्र॒तं रक्ष᳚माणावजु॒र्यम् ॥
पदपाठः (Word-by-word)
त्री । रो॒च॒ना । व॒रु॒ण॒ । त्रीन् । उ॒त । द्यून् । त्रीणि᳚ । मि॒त्र॒ । धा॒र॒य॒थः॒ । रजां᳚सि ।
व॒वृ॒धा॒नौ । अ॒मति᳚म् । क्ष॒त्रिय᳚स्य । अनु᳚ । व्र॒तम् । रक्ष᳚माणौ । अ॒जु॒र्यम् ॥
व॒वृ॒धा॒नौ । अ॒मति᳚म् । क्ष॒त्रिय᳚स्य । अनु᳚ । व्र॒तम् । रक्ष᳚माणौ । अ॒जु॒र्यम् ॥
सायणभाष्यम् (Sayana Commentary)
हेवरुण हेमित्र युवां त्री त्रीणि रोचना रोचनानि द्युलोकान्धारयथइतिसंबन्धः उतअपिच त्रीन् द्यून् द्योतमानानंतरिक्षलोकान् धार- यथः तथात्रीणिरजांसि भूलोकान् कीदृशौ युवां वावृधाना वर्धमानौ क्षत्रियस्य क्षत्रं बलं तद्वतइन्द्रस्य यद्वा क्षत्रियजातीयस्ययजमानस्य अमतिं रूपनामैतत् रूपंव्रतंकर्मच अजुर्यं अजीर्णंअविरतंवा रक्षमाणौ ॥ १ ॥