श्रवणम्

5.69.3
प्रा॒तर्दे॒वीमदि᳚तिं जोहवीमि म॒ध्यंदि᳚न॒ उदि᳚ता॒ सूर्य᳚स्य ।
रा॒ये मि᳚त्रावरुणा स॒र्वता॒तेळे᳚ तो॒काय॒ तन᳚याय॒ शं योः ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः । दे॒वीम् । अदि᳚तिम् । जो॒ह॒वी॒मि॒ । म॒ध्यन्दि᳚ने । उत्॑इ᳚ता । सूर्य᳚स्य ।
रा॒ये । मि॒त्रा॒व॒रु॒णा॒ । स॒र्व॑ता᳚ता । ईळे᳚ । तो॒काय᳚ । तन᳚याय । शम् । योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमृषिः प्रातः प्रातःकाले अदितिमखंडनीयां देवानांजननी देवीं द्योतमानां जोहवीमि आह्वयामि तथामध्यन्दिने सूर्यस्य उदिता उदितौ तत्समृद्धिकाले माध्यन्दिनेसवने जोहवीमि हेमित्रावरुणा युवां राये धनप्राप्तये सर्वतात्तौ यज्ञे ईळे स्तौमि पुनःकिमर्थं तोकाय पुत्राय तनयाय तत्पुत्रायच शं अरिष्टशमनाय योः सुखस्यमिश्रणायच ईळइति ॥ ३ ॥