इरा᳚वतीर्वरुण धे॒नवो᳚ वां॒ मधु᳚मद्वां॒ सिन्ध᳚वो मित्र दुह्रे ।
त्रय᳚स्तस्थुर्वृष॒भास᳚स्तिसृ॒णां धि॒षणा᳚नां रेतो॒धा वि द्यु॒मन्त᳚ः ॥
त्रय᳚स्तस्थुर्वृष॒भास᳚स्तिसृ॒णां धि॒षणा᳚नां रेतो॒धा वि द्यु॒मन्त᳚ः ॥
पदपाठः (Word-by-word)
इरा᳚॑वतीः । व॒रु॒ण॒ । धे॒नवः᳚ । वा॒म् । मधु᳚॑मत् । वा॒म् । सिन्ध᳚वः । मि॒त्र॒ । दु॒ह्रे॒ ।
त्रयः᳚ । त॒स्थुः॒ । वृ॒ष॒भासः᳚ । ति॒सॄ॒णाम् । धि॒षणा᳚नाम् । रे॒तः॒॑धाः । वि । द्यु॒॑मन्तः᳚ ॥
त्रयः᳚ । त॒स्थुः॒ । वृ॒ष॒भासः᳚ । ति॒सॄ॒णाम् । धि॒षणा᳚नाम् । रे॒तः॒॑धाः । वि । द्यु॒॑मन्तः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेवरुण हेमित्र वांयुवयोराज्ञाया धेनवोगावः इरावतीः इराक्षीरलवणातद्वत्योभवन्ति तथासिंधवः स्यंदनशीलामेघानद्योवा मधुमत् मधुरसमुदकं दुह्रे दुहन्ति तथा त्रयः त्रिसंख्याकावृषभासोवर्षितारः रेतोधाः उदकस्यधारकाः द्युमंतोदीप्तिमन्तः अग्निवाय्वादित्याः तिसॄ- णां त्रिसंख्याकानां धिषणानां स्थानानां पृथिव्यंतरिक्षद्युलोकानां स्वामिनःसन्तः वि विविधं प्रत्येकं तस्थुस्तिष्ठन्ति युवयोरनुग्रहात् त्रयो- पिदेवास्त्रिषुस्थानेषुवर्तंतइत्यर्थः ॥ २ ॥