पा॒तं नो᳚ रुद्रा पा॒युभि᳚रु॒त त्रा᳚येथां सुत्रा॒त्रा ।
तु॒र्याम॒ दस्यू᳚न्त॒नूभि᳚ः ॥
तु॒र्याम॒ दस्यू᳚न्त॒नूभि᳚ः ॥
पदपाठः (Word-by-word)
पा॒तम् । नः॒ । रु॒द्रा॒ । पा॒यु॑भिः᳚ । उ॒त । त्रा॒ये॒था॒म् । सु॒॑त्रा॒त्रा ।
तु॒र्याम᳚ । दस्यू᳚न् । त॒नूभिः᳚ ॥
तु॒र्याम᳚ । दस्यू᳚न् । त॒नूभिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेरुद्रा उक्तरूपौ देवौ युवां नोस्मान् पायुभिः रक्षणैः पातं रक्षतं उतापिच सुत्रात्रा शोभनेनत्राणेन त्रायेथां पालयेथां इष्टप्राप्त्यनिष्ट- परिहारभेदेनभेदः स्तोत्रादिवैकल्याच्छत्रोर्वात्रायेथां अभिमतप्रापणेनरक्षतमित्यर्थः वयंच तनूभिः पुत्रादिभिः सहिताः स्वीयैरंगैर्वा दस्यून् शत्रून् तुर्याम हिंस्याम तरेमवा ॥ ३ ॥