मा कस्या᳚द्भुतक्रतू य॒क्षं भु᳚जेमा त॒नूभि᳚ः ।
मा शेष᳚सा॒ मा तन᳚सा ॥
मा शेष᳚सा॒ मा तन᳚सा ॥
पदपाठः (Word-by-word)
मा । कस्य᳚ । अ॒द्भु॒त॒क्र॒तू॒ इत्य᳚द्भुत॑क्रतू । य॒क्षम् । भु॒जे॒म॒ । त॒नूभिः᳚ ।
मा । शेष᳚सा । मा । तन᳚सा ॥
मा । शेष᳚सा । मा । तन᳚सा ॥
सायणभाष्यम् (Sayana Commentary)
हेअद्भुतक्रतू आश्चर्यकर्माणौ वयं कस्य अन्यस्यकस्यच नयक्षं पूजितं धनंमाभुजेम माभुंजीमहि तनूभिरस्मदीयैरवयवैः युवयोरनुग्र- हात् समृद्धावयंक् अन्यथावयंकस्यचिद्धनेन शरीरपोषंनकुर्मइत्यर्थः तथा शेषसा अपत्येनसहितामाभुजेम तनसा पौत्रादिनासहितामा- भुजेम अस्मत्कुलेनकेपिभुंजीमहीत्यर्थः ॥ ४ ॥
आनोगन्तमितितृचात्मकंपंचदशंसूक्तं बाहुवृक्तस्यात्रेयस्यार्षं गायत्र मैत्रावरुणं आनस्तृचंबाहुवृक्तइत्यनुक्रमणिका उक्तःसूक्तविनियोगः अग्निष्टोमेप्रातःसवनेमैत्रावरुणशस्त्रे अयमनुरूपस्तृचः सूत्रितंच-आनोमित्रावरुणाआनोगन्तंरिशादसेति ।