श्रवणम्

6.51.1
उदु॒ त्यच्चक्षु॒र्महि᳚ मि॒त्रयो॒रा{4} एति᳚ प्रि॒यं वरु᳚णयो॒रद᳚ब्धम् ।
ऋ॒तस्य॒ शुचि᳚ दर्श॒तमनी᳚कं रु॒क्मो न दि॒व उदि᳚ता॒ व्य᳚द्यौत् ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । त्यत् । चक्षुः᳚ । महि᳚ । मि॒त्रयोः᳚ । आ । एति᳚ । प्रि॒यम् । वरु᳚णयोः । अद᳚ब्धम् ।
ऋ॒तस्य᳚ । शुचि᳚ । द॒र्श॒तम् । अनी᳚कम् । रु॒क्मः । न । दि॒वः । उत्॑इ᳚ता । वि । अ॒द्यौ॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यत् तत् प्रसिद्धंचक्षुः प्रकाशकंमहिमहद्विस्तृतंमित्रयोर्वरुणयोः प्रियं मित्रशब्दोवरुणशब्दश्चेतरेतरयोगान्मित्रावरुणावुभावप्याचष्टे- मित्रावरुणयोरतिप्रियं अदब्धंरक्षोभिरहिंसितं शुचिशुद्धं निर्मलं दर्शतंदर्शनीयं एवं भूतंऋतस्यादित्यस्यअनीकंतेजः आसर्वेषामभिमुखं उदेति उद्गच्छति उदिताउदितौसूर्यस्योदयेसतिउदितंतत्तेजः दिवोन्तरिक्षस्यरुक्मोन भूषणमिवव्यद्यौत् विद्योततेप्रकाशते ॥ १ ॥