नम॒ इदु॒ग्रं नम॒ आ वि᳚वासे॒ नमो᳚ दाधार पृथि॒वीमु॒त द्याम् ।
नमो᳚ दे॒वेभ्यो॒ नम᳚ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि᳚वासे ॥
नमो᳚ दे॒वेभ्यो॒ नम᳚ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि᳚वासे ॥
पदपाठः (Word-by-word)
नमः᳚ । इत् । उ॒ग्रम् । नमः᳚ । आ । वि॒वा॒से॒ । नमः᳚ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
नमः᳚ । दे॒वेभ्यः᳚ । नमः᳚ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः᳚ । नम᳚सा । आ । वि॒वा॒से॒ ॥
नमः᳚ । दे॒वेभ्यः᳚ । नमः᳚ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः᳚ । नम᳚सा । आ । वि॒वा॒से॒ ॥
सायणभाष्यम् (Sayana Commentary)
आस्तांतावत् देवानांमाहात्म्यं तदीयोनमस्कारोपिंइत्थंमहाभागइतिब्रुवाणः कैमुतिकन्यायेनदेवान् स्तौति—नमइत् नमस्कारएवउ- ग्रमुद्गूर्णबलंसर्वोत्कृष्टंतेनहिसर्वंलभ्यते अतोनमःनमस्कारं आविवासे परिचरामि नमःनमस्कारएव पृथिवींउतद्यांद्युलोकंचदाधार धार- यति द्यावापृथिव्यौप्राणिभिर्नमस्कियमाणे सत्यौ तदुपभोगायचिरकालमवतिष्ठेते अतोदेवेभ्यईदृशंनमस्करोमि एषांदेवानांनमोनमस्का- रः ईशेईष्टे यतस्तेनतेवशीकृताः कृतंचित् कृतपिआचरितमप्येनः पापंनमसानमस्कारेणआविवासे विवासोवर्जनं वर्जयामि विनाशयामि ॥ ८ ॥