श्रवणम्

6.51.13
अप॒ त्यं वृ᳚जि॒नं रि॒पुं स्ते॒नम᳚ग्ने दुरा॒ध्य᳚म् ।
द॒वि॒ष्ठम᳚स्य सत्पते कृ॒धी सु॒गम् ॥
▶ पदपाठः (Word-by-word)
अप᳚ । त्यम् । वृ॒जि॒नम् । रि॒पुम् । स्ते॒नम् । अ॒ग्ने॒ । दुः॒॑आ॒ध्य᳚म् ।
द॒वि॒ष्ठम् । अ॒स्य॒ । स॒त्॑प॒ते॒ । कृ॒धि । सु॒॑गम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंत्यंतंप्रसिद्धंवृजिनंकुटिलंरिपुंपापकारिणं दुराध्यं दुःखस्याध्यातारंदुष्टाभिप्रायं एवंभूतंस्तेनंहिंसकंदविष्ठंदूरतमं अपास्य अप- क्षिप असुक्षेपणइतिधातुः हेसत्पते सतांपालयितरग्ने अस्माकंसुगंशोभनेनगंतव्यंसुखंकृधि कुरु अत्रसर्वदेवात्मकस्याग्नेः स्तवनाद्वैश्वदेवत्वं ॥ १३ ॥