श्रवणम्

6.51.9
ऋ॒तस्य᳚ वो र॒थ्य᳚ः पू॒तद᳚क्षानृ॒तस्य᳚ पस्त्य॒सदो॒ अद᳚ब्धान् ।
ता{4} आ नमो᳚भिरुरु॒चक्ष᳚सो॒ नॄन्विश्वा᳚न्व॒ आ न᳚मे म॒हो य᳚जत्राः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । वः॒ । र॒थ्यः᳚ । पू॒त॑द᳚क्षान् । ऋ॒तस्य᳚ । प॒स्त्य॒॑सदः᳚ । अद᳚ब्धान् ।
तान् । आ । नमः᳚॑भिः । उ॒रु॒॑चक्ष᳚सः । नॄन् । विश्वा᳚न् । वः॒ । आ । न॒मे॒ । म॒हः । य॒ज॒त्राः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजत्रायष्टव्यादेवाः वोयुष्मदीयस्यऋतस्ययज्ञस्यरथ्योरंहितॄन् नेतॄन् पूतदक्षान् शुद्धबलान् ऋतस्ययज्ञस्यपस्त्यसदः यज्ञंसंबन्धिनि- पस्त्येदेवय्जनलक्षणेगृहेसीदतोनिषण्णान् अदब्धान् रक्षः प्रभृतिभिरहिंसितान् उरुचक्षसोबहुद्रष्टॄन् नृन्नेतॄन् महोमहतःतान् विश्वान् सर्वा- न्वोयुष्मान् आआभिमुख्येन क्रियमणैर्नमोभिर्नमस्कारैः आनमे आनतोस्मि ॥ ९ ॥