ते न॒ इन्द्र᳚ः पृथि॒वी क्षाम᳚ वर्धन्पू॒षा भगो॒ अदि᳚ति॒ः पञ्च॒ जना᳚ः ।
सु॒शर्मा᳚ण॒ः स्वव᳚सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः᳚ सुगो॒पाः ॥
सु॒शर्मा᳚ण॒ः स्वव᳚सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः᳚ सुगो॒पाः ॥
पदपाठः (Word-by-word)
ते । नः॒ । इन्द्रः᳚ । पृ॒थि॒वी । क्षाम᳚ । व॒र्ध॒न् । पू॒षा । भगः᳚ । अदि᳚तिः । पञ्च᳚ । जनाः᳚ ।
सु॒॑शर्मा᳚णः । सु॒॑अव᳚सः । सु॒॑नी॒थाः । भव᳚न्तु । नः॒ । सु॒॑त्रा॒त्रासः᳚ । सु॒॑गो॒पाः ॥
सु॒॑शर्मा᳚णः । सु॒॑अव᳚सः । सु॒॑नी॒थाः । भव᳚न्तु । नः॒ । सु॒॑त्रा॒त्रासः᳚ । सु॒॑गो॒पाः ॥
सायणभाष्यम् (Sayana Commentary)
तेदेवानोस्माकंक्षामनिवासभूमिंवर्धन् वर्धयन्तु केते इन्द्रः पृथिवीच पूषाचभगश्च अदितिरदीनादेवमाताच पंचजनादेवमनुष्याणांगं- धर्वाप्सरसामित्यादिब्राह्मणोक्तादेवमनुष्यादयश्चते चनोस्मदर्थंसुशर्माणः सुसुखाः स्ववसः शोभनान्नाः सुनीथाः सुप्रापणाश्चभवन्तु अस्म- भ्यंशोभनसुखादिकंप्रयच्छन्त्वितिभावः तथासुत्रात्रासः सुष्ठुत्रातारः सुगोपाः शोभनगोपायितारश्चभववन्तु उपस्थितेभ्यः सत्रुभ्योरक्षणं- त्राणं तेषांउत्पत्तिनिरोधेन रक्षणंगोपनं ॥ ११ ॥