अपि॒ पन्था᳚मगन्महि स्वस्ति॒गाम᳚ने॒हस᳚म् ।
येन॒ विश्वा॒ः परि॒ द्विषो᳚ वृ॒णक्ति᳚ वि॒न्दते॒ वसु᳚ ॥
येन॒ विश्वा॒ः परि॒ द्विषो᳚ वृ॒णक्ति᳚ वि॒न्दते॒ वसु᳚ ॥
पदपाठः (Word-by-word)
अपि᳚ । पन्था᳚म् । अ॒ग॒न्म॒हि॒ । स्व॒स्ति॒॑गाम् । अ॒ने॒हस᳚म् ।
येन᳚ । विश्वाः᳚ । परि᳚ । द्विषः᳚ । वृ॒णक्ति᳚ । वि॒न्दते᳚ । वसु᳚ ॥
येन᳚ । विश्वाः᳚ । परि᳚ । द्विषः᳚ । वृ॒णक्ति᳚ । वि॒न्दते᳚ । वसु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पंथांपंथानंमार्गंअप्यगन्महि अपिगताःप्राप्ताःस्मः कीदृशं स्वस्तिगां सुखेनगन्तव्यं अनेहसं पापरहितं येनपथागच्छन् विश्वाःसर्वाः द्विषोद्वेष्ट्रीःप्रजाः परिवृणक्ति परिवर्जयति वाधते वसधनंचविंदते लभते तादृशंपंथानमित्यर्थः ॥ १६ ॥
नतद्दिवेतिसप्तदशर्चंतृतीयंसूक्तंऋजिश्वन आर्षंवैश्वदेवं आदितः षट् त्रिष्ट्भः सप्तम्याद्याः षड्गायत्र्यः त्रयोदशीत्रिष्टुप् चतुर्दशीजगती शिष्टास्तिस्रस्त्रिष्टुभः तथाचानुक्रान्तं—नतत् त्र्यूनासप्तम्याद्याः षड्गायत्र्यश्चतुर्दशीजगतीति । गतोविनियोगः ।