श्रवणम्

6.51.15
यू॒यं हि ष्ठा सु᳚दानव॒ इन्द्र᳚ज्येष्ठा अ॒भिद्य᳚वः ।
कर्ता᳚ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । हि । स्थ । सु॒॑दा॒न॒वः॒ । इन्द्र᳚॑ज्येष्ठाः । अ॒भि॑द्य᳚वः ।
कर्त᳚ । नः॒ । अध्व᳚न् । आ । सु॒॑गम् । गो॒पाः । अ॒मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुदानवः शोभनदानादेवाः यूयंहिष्ठ यूयंखलुप्रभवथ समृद्धाःस्थ इन्द्रज्येष्ठाः इन्द्रःज्येष्ठःमुख्योयेषांते अभिद्यवःअभिगतदीप्तयः तेयूयं अध्वन् अध्वनिमार्गेनोस्माकं अमासहैवगोपाः गोपायितारोरक्षितारःसन्तः सुगंसुखं आकारः समुच्चये सुखंचये सुखंच कर्त कुरुत ॥ १५ ॥ प्रवासादागमनेअपिपंथामित्येषायजमानेनजप्या सूत्रितंच—अपिपंथामगन्महीतिप्रत्येत्यसमित्पाणिरिति ।