श्रवणम्

6.51.5
द्यौ॒३॒᳚ष्पित॒ः पृथि᳚वि॒ मात॒रध्रु॒गग्ने᳚ भ्रातर्वसवो मृ॒ळता᳚ नः ।
विश्व᳚ आदित्या अदिते स॒जोषा᳚ अ॒स्मभ्यं॒ शर्म᳚ बहु॒लं वि य᳚न्त ॥
▶ पदपाठः (Word-by-word)
द्यौः᳚ । पित॒रिति᳚ । पृथि᳚वि । मातः᳚ । अध्रु᳚क् । अग्ने᳚ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत᳚ । नः॒ ।
विश्वे᳚ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒॑जोषाः᳚ । अ॒स्मभ्य᳚म् । शर्म᳚ । ब॒हु॒लम् । वि । य॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितः पितृस्थानीयद्यौः द्युलोकहेमातः मातृस्थानीयेअध्रुगद्रोग्धि पृथिवि हेभ्रातः भ्रातृस्थानीयाग्ने हेवसवोवासयितारोदेवाः तेसर्वे- यूयंनोस्मान् मृळतसुखयत हेविश्वआदित्याः सर्वेअदितिपुत्रादेवाः हेअदिते यूयंसजोषाः संगताभूत्वाअस्मभ्यंबहुलंअधिकंशर्मसुखं विस्तृ- तंवागृहंवियन्तप्रयच्छत ॥ ५ ॥