श्रवणम्

6.51.12
नू स॒द्मानं᳚ दि॒व्यं नंशि᳚ देवा॒ भार᳚द्वाजः सुम॒तिं या᳚ति॒ होता᳚ ।
आ॒सा॒नेभि॒र्यज᳚मानो मि॒येधै᳚र्दे॒वानां॒ जन्म᳚ वसू॒युर्व᳚वन्द ॥
▶ पदपाठः (Word-by-word)
नु । स॒द्मान᳚म् । दि॒व्यम् । नंशि᳚ । दे॒वाः॒ । भार᳚त्॑वाजः । सु॒॑म॒तिम् । या॒ति॒ । होता᳚ ।
आ॒सा॒नेभिः᳚ । यज᳚मानः । मि॒येधैः᳚ । दे॒वाना᳚म् । जन्म᳚ । व॒सु॒॑युः । व॒व॒न्द॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयाऋषिरात्मानंपरोक्षवदाह—हेदेवाः भारद्वाजःभरद्वाजगोत्रजः होतास्तोतायमृषिः दिव्यंदिविभवंसद्भानंसदनंस्थानंनुक्षिप्रंनंशि व्याप्नोतु तथासुमतिंशोभनांमतिंयुष्मदीयामनुग्रहबुद्धिंच यातियाचते यातिर्याच्ञाकर्मा तदर्थंआसानेभिः आसीनैः सत्रासनंकुर्वद्भिः मिये- धैर्मेध्यैर्मेधार्हैः अन्ययजमानैः सार्धं यजमानः यागंकुर्वन्नयमृषिः वसूयुर्वसूनिधनान्यात्मनइच्छन् देवानांजन्मजनंसंघंववंदवंदते स्तौति ॥ १२ ॥ दशरात्रस्यचतुर्थेहनिप्रउगशस्त्रेअपत्यंवृजिनमित्येषवैश्वदेवस्तृचः सूत्रितंच—अपत्यंवृजिनंरिपुमंबितमेनदीतमइत्यानुष्टुभंप्रउगमिति ।