श्रवणम्

6.51.14 समानपद
ग्रावा᳚णः सोम नो॒ हि कं᳚ सखित्व॒नाय᳚ वाव॒शुः ।
ज॒ही न्य१॒᳚त्रिणं᳚ प॒णिं वृको॒ हि षः ॥
▶ पदपाठः (Word-by-word)
ग्रावा᳚णः । सो॒म॒ । नः॒ । हि । क॒म् । स॒खि॒॑त्व॒नाय᳚ । वा॒व॒शुः ।
ज॒हि । नि । अ॒त्रिण᳚म् । प॒णिम् । वृकः᳚ । हि । सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम नोस्मदीयाइमेग्रावाणः अभिषवार्थाःपाषाणाः तवसखित्वनायसख्यार्थंवावशुः कामयन्ते कमितिपूरकः हियस्मादर्थे यस्मादे- वंतस्मात्त्वंपणिंवणिजमदातारं अत्रिणं अदनशीलं राक्षसादिकंनिजहि विनाशय सपणिर्वृकोहि आदानपरःखलुसर्वदास्मत्तोपहरणशीलः अतस्त्वंजहात्यर्थः वृकआदानइतिधातुः ॥ १४ ॥