श्रवणम्

6.51.4
रि॒शाद᳚स॒ः सत्प᳚ती{4}॒रद᳚ब्धान्म॒हो राज्ञ᳚ः सुवस॒नस्य᳚ दा॒तॄन् ।
यूनः᳚ सुक्ष॒त्रान्क्षय᳚तो दि॒वो नॄना᳚दि॒त्यान्या॒म्यदि᳚तिं दुवो॒यु ॥
▶ पदपाठः (Word-by-word)
रि॒शाद᳚सः । सत्॑प᳚तीन् । अद᳚ब्धान् । म॒हः । राज्ञः᳚ । सु॒॑व॒स॒नस्य᳚ । दा॒तॄन् ।
यूनः᳚ । सु॒॑क्ष॒त्रान् । क्षय᳚तः । दि॒वः । नॄन् । आ॒दि॒त्यान् । या॒मि॒ । अदि᳚तिम् । दु॒वः॒॑यु ॥
▶ सायणभाष्यम् (Sayana Commentary)

रिशादसः रिशतांहिंसकानांअसितॄन् क्षेतॄन् यद्वा रिशानांहिंसकानांअतॄन् भक्षयितॄन् सत्पतीन् सतांपालयितॄन् अदब्धानहिंसितान् महोमहतः राज्ञोराजमानान् ईश्वरान्वासुवसनस्य शोभननिवासस्यदातॄन् यूनोनित्यतरुणान् सुक्षत्रान् शोभनधनान् शोभनबलान् वा क्षयतःसर्वत्र निवसतः यद्वा क्षयतिरैश्वर्यकर्मा ईशानान् दिवोद्युलोकस्यनॄन् नेतॄन् आदित्यान् अदितेः पुत्रान् ईदृशान् सर्वान् देवान् दुवोयु लुप्तविभक्तिकमेतत् दुवोयुंदुवोस्मदीयंपरिचरणंकामयमानांअदितिंदेवमातरंच यामि प्राप्नोमि यद्वा यामियाचामि ॥ ४ ॥