श्रवणम्

6.51.7
मा व॒ एनो᳚ अ॒न्यकृ᳚तं भुजेम॒ मा तत्क᳚र्म वसवो॒ यच्चय᳚ध्वे ।
विश्व᳚स्य॒ हि क्षय᳚थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं᳚ रीरिषीष्ट ॥
▶ पदपाठः (Word-by-word)
मा । वः॒ । एनः᳚ । अ॒न्य॑कृ᳚तम् । भु॒जे॒म॒ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय᳚ध्वे ।
विश्व᳚स्य । हि । क्षय᳚थ । वि॒श्व॒॑दे॒वाः॒ । स्व॒यम् । रि॒पुः । त॒न्व᳚म् । रि॒रि॒षी॒ष्ट॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवाः वोयुष्माकंस्वभूतावयंअन्यकृतंअन्यैःशत्रुभिः कृतमुत्पादितं एनःपापं माभुजेम माभुंक्ष्महि हेवसवोवासयितारोदेवाः यत् येनकृतेनपापेन चयध्वेअस्मान्बाधध्वे चयतिर्हिंसाकर्मा तच्चपापंमाकर्म माकार्ष्म करोतेर्माङिलुङिमंत्रेघसेतिच्लेर्लुक् हेविश्वेदेवाः सर्वेदेवाः विश्वस्यसर्वस्यजगतोयूयंहिक्षयथ ईश्वराभवथ अतःकारणात् अस्मदीयोरिपुःशत्रुः तन्वंस्वशरीरं स्वयमेवरिरिषीष्ट हिंस्यात् यथैवंभवतितथाकुरुतेतिभावः ॥ ७ ॥