ते हि श्रेष्ठ᳚वर्चस॒स्त उ᳚ नस्ति॒रो विश्वा᳚नि दुरि॒ता नय᳚न्ति ।
सु॒क्ष॒त्रासो॒ वरु᳚णो मि॒त्रो अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज᳚सत्याः ॥
सु॒क्ष॒त्रासो॒ वरु᳚णो मि॒त्रो अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज᳚सत्याः ॥
पदपाठः (Word-by-word)
ते । हि । श्रेष्ठ᳚॑वर्चसः । ते । ऊं॒ इति᳚ । नः॒ । ति॒रः । विश्वा᳚नि । दुः॒॑इ॒ता । नय᳚न्ति ।
सु॒॑क्ष॒त्रासः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः । ऋ॒त॑धी᳚तयः । व॒क्म॒राज᳚॑सत्याः ॥
सु॒॑क्ष॒त्रासः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः । ऋ॒त॑धी᳚तयः । व॒क्म॒राज᳚॑सत्याः ॥
सायणभाष्यम् (Sayana Commentary)
येदेवाः वक्ष्यमाणगुणाः तेहितेखलु श्रेष्ठवर्चसः श्रेष्ठवर्चसः प्रशस्यतमदीप्तयोभवन्ति अतः तउतएवनोस्माकंविश्वानिसर्वाणिदुरितापा- पानि तिरः तिरोहितानियथाभवन्तितथानयन्ति नयन्तु विनाशयन्त्वित्यर्थः येवरुणादयोदेवाः सुक्षत्रासः शोभनबलाः शोभनधनावाऋ- तधीतयः सत्यकर्माणः वक्मराजसत्याः वक्मवचनंस्तोत्रं तस्यराजानःईशानावक्मराजानः स्तोतारः तेषुस्त्याः अवितथाः एवंभूतास्ते- हीत्यन्वयः ॥ १० ॥