श्रवणम्

6.51.3
स्तु॒ष उ᳚ वो म॒ह ऋ॒तस्य᳚ गो॒पानदि᳚तिं मि॒त्रं वरु᳚णं सुजा॒तान् ।
अ॒र्य॒मणं॒ भग॒मद᳚ब्धधीती॒नच्छा᳚ वोचे सध॒न्य᳚ः पाव॒कान् ॥
▶ पदपाठः (Word-by-word)
स्तु॒षे । ऊं॒ इति᳚ । वः॒ । म॒हः । ऋ॒तस्य᳚ । गो॒पान् । अदि᳚तिम् । मि॒त्रम् । वरु᳚णम् । सु॒॑जा॒तान् ।
अ॒र्य॒मण᳚म् । भग᳚म् । अद᳚ब्ध॑धीतीन् । अच्छ᳚ । वो॒चे॒ । स॒॑ध॒न्यः᳚ । पा॒व॒कान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवाः महोमहतऋतस्ययज्ञस्यगोपान् रक्षकान् वोयुष्मान् स्तुषेस्तुवे उइतिपूरणः तानेवदेवानाह—अदितिमदीनांदेवमातरंमित्रंव- रुणंचएतान् सुजातान् शोभनजननान् अर्यमणंभगंचअदब्धधीत् अहिंसितकर्मणः सधन्यः धनसहितान् पावकान् विशस्यशोधकान् ईदृ- शान् सर्वान् देवान् अच्छवोचे अभिप्रब्रवीमीत्यर्थः ॥ ३ ॥