वेद॒ यस्त्रीणि᳚ वि॒दथा᳚न्येषां दे॒वानां॒ जन्म᳚ सनु॒तरा च॒ विप्र᳚ः ।
ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च᳚ष्टे॒ सूरो᳚ अ॒र्य एवा᳚न् ॥
ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च᳚ष्टे॒ सूरो᳚ अ॒र्य एवा᳚न् ॥
पदपाठः (Word-by-word)
वेद᳚ । यः । त्रीणि᳚ । वि॒दथा᳚नि । ए॒षा॒म् । दे॒वाना᳚म् । जन्म᳚ । स॒नु॒तः । आ । च॒ । विप्रः᳚ ।
ऋ॒जु । मर्ते᳚षु । वृ॒जि॒ना । च॒ । पश्य᳚न् । अ॒भि । च॒ष्टे॒ । सूरः᳚ । अ॒र्यः । एवा᳚न् ॥
ऋ॒जु । मर्ते᳚षु । वृ॒जि॒ना । च॒ । पश्य᳚न् । अ॒भि । च॒ष्टे॒ । सूरः᳚ । अ॒र्यः । एवा᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
यःसूर्यः त्रीणित्रिसंख्यानि विदथानिवेदितव्यानिस्थानानि त्रिन्लोकान् वेदवेत्तिजानाति एषांएतत् लोकत्रयवर्तिनांदेद्वानांवसुरुद्रादि- त्यात्मकानां सनुतरंतर्हितनामैतत् अन्तर्हितं अप्रज्ञायमानं जन्मजननंचयोविप्रोमेधावीसूर्योवेत्ति आकारः पूरकः ससूरः सूर्यः मर्तेषुमनु- ष्येषुविद्यामानानिऋजुऋजूनिशोभनानिकर्मणिवृजिनावृजिनानिअशोभनानिकर्मणिच पश्यन् साक्षितयाजानन् आभिचष्टे अभितः सर्वें जगत्प्रकाशयति तथाअर्यः स्वामी भूत्वाएवान् प्राप्तव्यान् कामांश्चमनुष्येषुप्रकाशयति ॥ २ ॥