समि᳚द्धो अ॒ग्निर्दि॒वि शो॒चिर᳚श्रेत्प्र॒त्यङ्ङु॒षस᳚मुर्वि॒या वि भा᳚ति ।
एति॒ प्राची᳚ वि॒श्ववा᳚रा॒ नमो᳚भिर्दे॒वा{4} ईळा᳚ना ह॒विषा᳚ घृ॒ताची᳚ ॥
एति॒ प्राची᳚ वि॒श्ववा᳚रा॒ नमो᳚भिर्दे॒वा{4} ईळा᳚ना ह॒विषा᳚ घृ॒ताची᳚ ॥
पदपाठः (Word-by-word)
सम्॑इ᳚द्धः । अ॒ग्निः । दि॒वि । शो॒चिः । अ॒श्रे॒त् । प्र॒त्यङ् । उ॒षस᳚म् । उ॒र्वि॒या । वि । भा॒ति॒ ।
एति᳚ । प्राची᳚ । वि॒श्व॑वा᳚रा । नमः᳚॑भिः । दे॒वान् । ईळा᳚ना । ह॒विषा᳚ । घृ॒ताची᳚ ॥
एति᳚ । प्राची᳚ । वि॒श्व॑वा᳚रा । नमः᳚॑भिः । दे॒वान् । ईळा᳚ना । ह॒विषा᳚ । घृ॒ताची᳚ ॥
सायणभाष्यम् (Sayana Commentary)
समिद्धः सम्यक् दीप्तोग्निः दिवि द्योतमानेन्तरिक्षे शोचिस्तेजः अश्रेत् श्रयति तथा उषसं प्रत्यङ्उषसमभिमुखःसन् उर्विया उरु विस्तीर्णं विभाति विशेषेणभ्राजते नमोभिः स्तोत्रैः देवान् इन्द्रादीन् ईळाना स्तुवती हविषापुरोडाशादिलक्षणेनयुक्तया घृताची घृताच्या स्रुचा सहिता विश्ववारा सर्वमपिपापरूपंशत्रुंवारयित्री एतन्नामिका प्राची प्राङ्मुखी सती एति एवंभूतमग्निंप्रतिगच्छति ॥ १ ॥