समि᳚द्धस्य॒ प्रम᳚ह॒सो॑ग्ने॒ वन्दे॒ तव॒ श्रिय᳚म् ।
वृ॒ष॒भो द्यु॒म्नवा{4}᳚ असि॒ सम᳚ध्व॒रेष्वि᳚ध्यसे ॥
वृ॒ष॒भो द्यु॒म्नवा{4}᳚ असि॒ सम᳚ध्व॒रेष्वि᳚ध्यसे ॥
पदपाठः (Word-by-word)
सम्॑इ᳚द्धस्य । प्र॑म᳚हसः । अ॒ग्ने॒ । वन्दे᳚ । तव᳚ । श्रिय᳚म् ।
वृ॒ष॒भः । द्यु॒म्न॑वा᳚न् । अ॒सि॒ । सम् । अ॒ध्व॒रेषु᳚ । इ॒ध्य॒से॒ ॥
वृ॒ष॒भः । द्यु॒म्न॑वा᳚न् । अ॒सि॒ । सम् । अ॒ध्व॒रेषु᳚ । इ॒ध्य॒से॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने समिद्धस्य प्रवृद्धस्य प्रमहसः प्रकृष्टतेजसस्तवसंबन्धिनिंश्रियंदीप्तिंवन्दे अहं यजमानःस्तौमि वृषभः कामानांवर्षिता त्वं द्युम्नवानसि धनवान्भवसि अध्वरेयज्ञेषुसमिध्यसे सम्यक् दीप्यसे ॥ ४ ॥