श्रवणम्

5.28.3
अग्ने॒ शर्ध᳚ मह॒ते सौभ᳚गाय॒ तव᳚ द्यु॒म्नान्यु᳚त्त॒मानि᳚ सन्तु ।
सं जा᳚स्प॒त्यं सु॒यम॒मा कृ᳚णुष्व शत्रूय॒ताम॒भि ति᳚ष्ठा॒ महां᳚सि ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । शर्ध᳚ । म॒ह॒ते । सौभ᳚गाय । तव᳚ । द्यु॒म्नानि᳚ । उ॒त्॑त॒मानि᳚ । स॒न्तु॒ ।
सम् । जः॒॑प॒त्यम् । सु॒॑यम᳚म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒॑य॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं महते प्रभूताय सौभगाया अस्माकं शोभनधनत्वाय शर्ध शत्रून् सहस्व तथा तवसंबन्धीनिद्युम्नानिधनानितेजांसिवा उत्तमान्युत्कृष्टानिसन्तु भवन्तु किंच हेअग्ने संजास्पत्यं जाः जा याचपतिश्चजायापती तयोः कर्मजास्पत्यम् तत्सुयमं सुष्ठु नियमनोपेतं अन्योन्यसंश्लिष्टमित्यर्थः समाकृणुष्व सम्यक्कुरुष्व् अपिच शत्रूयतां शत्रुमात्मनइच्छतां सपत्नानां महांसितेजांसिअभितिष्ठ आक्रमस्व ॥ ३ ॥