श्रवणम्

5.28.2
स॒मि॒ध्यमा᳚नो अ॒मृत᳚स्य राजसि ह॒विष्कृ॒ण्वन्तं᳚ सचसे स्व॒स्तये᳚ ।
विश्वं॒ स ध᳚त्ते॒ द्रवि᳚णं॒ यमिन्व᳚स्याति॒थ्यम᳚ग्ने॒ नि च᳚ धत्त॒ इत्पु॒रः ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इ॒ध्यमा᳚नः । अ॒मृत᳚स्य । रा॒ज॒सि॒ । ह॒विः । कृ॒ण्वन्त᳚म् । स॒च॒से॒ । स्व॒स्तये᳚ ।
विश्व᳚म् । सः । ध॒त्ते॒ । द्रवि᳚णम् । यम् । इन्व᳚सि । आ॒ति॒थ्यम् । अ॒ग्ने॒ । नि । च॒ । ध॒त्ते॒ । इत् । पु॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने समिध्यमानः सम्यगिध्यमानस्त्वं अमृतस्योदकस्यराजसि ईशिषे तथा हविष्कृण्वंतंपुरोडाशादिहविष्कर्तारं यजमानं स्वस्तये अविनाशाय सचसेसेवसे किंच यं यजमानं इन्वसि गच्छसि यजमानः विश्वं समस्तं द्रविणं पश्वादिलक्षणंधनं धत्ते धारयति अपिच हेअग्ने आतिथ्यं अतिथिरूपस्यतव योग्यं हविः पुरइत् पुरस्तादेवनिधत्तेच स्थापयतिच ॥ २ ॥ पवित्रेष्ट्यांस्विष्टकृतोग्नेशर्धेतियाज्या सूत्र्यतेहि-जुष्टोदमूनाअग्नेशर्धमहतेसौभगायेति संय्याज्येइति । साकमेधेषुमरुद्भ्यःक्रीडिभ्यः पुरोडाशंसप्तकपालंइत्यत्राप्येषैवस्विष्टकृतोयाज्या सूत्रितंच-जुष्टोदमूनाअग्नेशर्धमहतेसौभगायेतिसंयाज्येइति ।