यदि᳚न्द्र चित्र मे॒हनास्ति॒ त्वादा᳚तमद्रिवः ।
राध॒स्तन्नो᳚ विदद्वस उभयाह॒स्त्या भ᳚र ॥
राध॒स्तन्नो᳚ विदद्वस उभयाह॒स्त्या भ᳚र ॥
पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । चि॒त्र॒ । मे॒हना᳚ । अस्ति᳚ । त्वा॑दा᳚तम् । अ॒द्रि॒॑वः॒ ।
राधः᳚ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति᳚ विदत्॑वसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥
राधः᳚ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति᳚ विदत्॑वसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र हेचित्र चायनीय हेअद्रिवोवज्रवन् यत् मेहनामेहनीयं त्वादातं त्वयादातव्यं राधोधनमस्ति तद्धनं हेविदद्वसो लब्धधनेन्द्र नोस्मभ्यं उभयाहस्ति उभाभ्यांहस्ताभ्यां आभर आहर अत्र यदिन्द्रचित्रचायनीयंमंहनीयंधनमस्तीत्यादिनिरुक्तंद्रष्टव्यम् ॥ १ ॥